श्रवणम्

4.50.7
स इद्राजा॒ प्रति᳚जन्यानि॒ विश्वा॒ शुष्मे᳚ण तस्थाव॒भि वी॒र्ये᳚ण ।
बृह॒स्पतिं॒ यः सुभृ᳚तं बि॒भर्ति᳚ वल्गू॒यति॒ वन्द᳚ते पूर्व॒भाज᳚म् ॥
▶ पदपाठः (Word-by-word)
सः । इत् । राजा᳚ । प्रति᳚॑जन्यानि । विश्वा᳚ । शुष्मे᳚ण । त॒स्थौ॒ । अ॒भि । वी॒र्ये᳚ण ।
बृह॒स्पति᳚म् । यः । सु॑भृ᳚तम् । बि॒भर्ति᳚ । व॒ल्गु॒॑यति᳚ । वन्द᳚ते । पू॒र्व॒॑भाज᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदमाद्यृक्त्रयं पुरोहितप्रशम्सेति ब्राह्मणम् । ऐ. ब्रा. ८-२६ । अथवा सूक्तस्य ऋग्द्वयवर्जितस्य बार्हस्पत्यत्वाद्वृहस्पतेरेव स्तुतिः । स इत्स एव राजा मूर्धाभिषिक्तोऽन्यो वा राजमानः प्रतिजन्यानि । जन्यं युद्धं प्रति बालानीत्यर्थः । प्रत्यर्थिजनपदानि वा तानि विश्वा सर्वाणि शुष्मेण बलेन वीर्येण शरीरसामर्थ्येन वाभि अभिगम्याक्रम्य तस्थौ । तिष्ठति । स इत्युक्तं क इत्याह । यो बृहस्पतिं बृहतां महतां पालयितारम् देवमुक्त लक्षणं पुरोहितं वा सुभृतं सुष्ठु हविः स्तोत्रादिनान्नाच्छादनादिना वा बिभर्ति भरति । वल्गूयति स्तौति । वन्दते नमस्करोति च पूर्वभाजमितरेभ्यः प्रथमसम्भक्तारं कृत्वा । एवं यः करोति स एव तस्थाविति ॥ ७ ॥