श्रवणम्

4.50.9
अप्र᳚तीतो जयति॒ सं धना᳚नि॒ प्रति᳚जन्यान्यु॒त या सज᳚न्या ।
अ॒व॒स्यवे॒ यो वरि᳚वः कृ॒णोति᳚ ब्र॒ह्मणे॒ राजा॒ तम᳚वन्ति दे॒वाः ॥
▶ पदपाठः (Word-by-word)
अप्र᳚ति॑इतः । ज॒य॒ति॒ । सम् । धना᳚नि । प्रति᳚॑जन्यानि । उ॒त । या । स॑ज᳚न्या ।
अ॒व॒स्यवे᳚ । यः । वरि᳚वः । कृ॒णोति᳚ । ब्र॒ह्मणे᳚ । राजा᳚ । तम् । अ॒व॒न्ति॒ । दे॒वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

स एवाप्रतीतोऽन्यैरप्रतिगतः सन् यानि धनानि प्रतिजन्यानि प्रतिस्पर्थ्द्जनसम्बन्धीनि उतापि च सजन्या जनसम्बन्धीनि धनानि सं जयति । यो राजावस्यवेऽवसीयसे धनरहिताय रक्षणमिच्छते ब्रह्मणे ब्राह्मणाय वा प्रीणनमिच्छते बृहस्पतये वा वरिवो धनं कृणोति । करोति । ददाति । स उक्तप्रकारेण महान्भवति । तमेव देवा अवन्ति । रक्षन्ति ॥ ९ ॥