श्रवणम्

4.50.5
स सु॒ष्टुभा॒ स ऋक्व᳚ता ग॒णेन᳚ व॒लं रु᳚रोज फलि॒गं रवे᳚ण ।
बृह॒स्पति᳚रु॒स्रिया᳚ हव्य॒सूद॒ः कनि᳚क्रद॒द्वाव᳚शती॒रुदा᳚जत् ॥
▶ पदपाठः (Word-by-word)
सः । सु॒॑स्तुभा । सः । ऋक्व᳚ता । ग॒णेन᳚ । व॒लम् । रु॒रो॒ज॒ । फ॒लि॒॑गम् । रवे᳚ण ।
बृह॒स्पतिः᳚ । उ॒स्रियाः᳚ । ह॒व्य॒॑सूदः᳚ । कनि᳚क्रदत् । वाव᳚शतीः । उत् । आ॒ज॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स बृहस्पतिः सुष्टुभा शोभनस्तुतिमतर्क्वता दीप्तिमता गणेनाङ्गिरसां रवेन शब्देन च सह फलिगम् । ञिफला विशरणे । फलिर्भेदः । तेन गच्छतीति फलिगम् । वलं वलनामानमसुरं रुरोज । बभञ्ज । द्वितीयः सशब्दः पूरणः । स एव देव उस्रिया भोगानामुत्स्राविणीर्हव्यसूदः क्षीरादिहविष्प्रेरिका वावशतीर्वावश्यमाना गा कनिक्रदत् शब्दं कुर्वन्नुदाजत् । उद्घाटयति स्म ॥ ५ ॥