श्रवणम्

4.22.1
यन्न॒ इन्द्रो᳚ जुजु॒षे यच्च॒ वष्टि॒ तन्नो᳚ म॒हान्क᳚रति शु॒ष्म्या चि᳚त् ।
ब्रह्म॒ स्तोमं᳚ म॒घवा॒ सोम᳚मु॒क्था यो अश्मा᳚नं॒ शव᳚सा॒ बिभ्र॒देति᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । नः॒ । इन्द्रः᳚ । जु॒जु॒षे । यत् । च॒ । वष्टि᳚ । तत् । नः॒ । म॒हान् । क॒र॒ति॒ । शु॒ष्मी । आ । चि॒त् ।
ब्रह्म᳚ । स्तोम᳚म् । म॒घ॑वा᳚ । सोम᳚म् । उ॒क्था । यः । अश्मा᳚नम् । शव᳚सा । बिभ्र᳚त् । एति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तत्र तृतीयानुवाक एकादश सूक्तानि । तत्र यन्न इन्द्र इत्येकादशर्चं प्रथमं सूक्तं वामदेवस्यार्षं त्रैष्टुभमैन्द्रम् । यन्न इत्यनुक्रमणिका । पृष्थ्याभिप्लवषडहयोः प्रथमेऽहनि माध्यन्दिनसवने मैत्रावरुणशस्त्रे द्वितीयमिदं सम्पातसूक्तम् । सूत्रितं च । एवा त्वामिन्द्र यन्न इन्द्रः । आ. ७-५ । इति ॥

इन्द्रो नोऽस्मदीयं युद्धविर्लक्षणान्नादिकं जुजुषे सेवते यच्च हविरादिकं च वष्टि कामयते महान् प्रभूतः शुष्मी बलवानिन्द्रः । चिचिति चार्थे । ब्रह्म चित् हविर्लक्षनपुरोडाशादिकमन्नं च स्तोमं स्तोत्रसमूहं च सोममभिषुतं सोमं चोक्थोक्थानि शस्त्राणि चेत्येवं भुतं तद्ब्रह्मादिचतुष्टयमाकरति । आकरोतु । स्वीकरोतु । मघवा धनवान् । अत्राश्मशब्दो वज्रवाची । अश्मानं वज्रं बिभ्रत् धारयन् शवसा बलेन युक्तो य इन्द्र एति आगच्छति । स इन्द्रः स्वीकरोत्विति पूर्वेन सम्बन्धः ॥ १ ॥