वृषा॒ वृष᳚न्धिं॒ चतु᳚रश्रि॒मस्य᳚न्नु॒ग्रो बा॒हुभ्यां॒ नृत᳚म॒ः शची᳚वान् ।
श्रि॒ये परु᳚ष्णीमु॒षमा᳚ण॒ ऊर्णां॒ यस्या॒ः पर्वा᳚णि स॒ख्याय᳚ वि॒व्ये ॥
श्रि॒ये परु᳚ष्णीमु॒षमा᳚ण॒ ऊर्णां॒ यस्या॒ः पर्वा᳚णि स॒ख्याय᳚ वि॒व्ये ॥
पदपाठः (Word-by-word)
वृषा᳚ । वृष᳚न्धिम् । चतुः᳚॑अश्रिम् । अस्य᳚न् । उ॒ग्रः । बा॒हु॑भ्या᳚म् । नृ॑त᳚मः । शची᳚॑वान् ।
श्रि॒ये । परु᳚ष्णीम् । उ॒षमा᳚णः । ऊर्णा᳚म् । यस्याः᳚ । पर्वा᳚णि । स॒ख्याय᳚ । वि॒व्ये ॥
श्रि॒ये । परु᳚ष्णीम् । उ॒षमा᳚णः । ऊर्णा᳚म् । यस्याः᳚ । पर्वा᳚णि । स॒ख्याय᳚ । वि॒व्ये ॥
सायणभाष्यम् (Sayana Commentary)
वृषा कामानां वर्षिता वृषन्धिं मेघभेदनद्वारेण वर्षं कुर्वन्तं चतुरश्रिं चतुसृभिरश्रिभिर्धाराभिरुपेतं वज्रं बाहुभ्यां हस्ताभ्यामस्यन् शत्रुषु प्रक्शिपन् उग्र उद्गूर्णबलो नृतमः नेतृतमः शचीवान् कर्मवानिन्द्र ऊर्णामाच्छादिकां परुष्णीं पर्ववतीं नदीं श्रिय आश्रयणार्थमुषमाणः सेवमानो भवति । यस्या नद्याः पर्वाणि भिनाअन्देशान् सख्याय सखिकर्मणे विव्ये संवृतान् ॥ २ ॥