ता तू त᳚ इन्द्र मह॒तो म॒हानि॒ विश्वे॒ष्वित्सव᳚नेषु प्र॒वाच्या᳚ ।
यच्छू᳚र धृष्णो धृष॒ता द᳚धृ॒ष्वानहिं॒ वज्रे᳚ण॒ शव॒सावि᳚वेषीः ॥
यच्छू᳚र धृष्णो धृष॒ता द᳚धृ॒ष्वानहिं॒ वज्रे᳚ण॒ शव॒सावि᳚वेषीः ॥
पदपाठः (Word-by-word)
ता । तु । ते॒ । इ॒न्द्र॒ । म॒ह॒तः । म॒हानि᳚ । विश्वे᳚षु । इत् । सव᳚नेषु । प्र॒॑वाच्या᳚ ।
यत् । शू॒र॒ । धृ॒ष्णो॒ इति᳚ । धृ॒ष॒ता । द॒धृ॒ष्वान् । अहि᳚म् । वज्रे᳚ण । शव᳚सा । अवि᳚वेषीः ॥
यत् । शू॒र॒ । धृ॒ष्णो॒ इति᳚ । धृ॒ष॒ता । द॒धृ॒ष्वान् । अहि᳚म् । वज्रे᳚ण । शव᳚सा । अवि᳚वेषीः ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र महतः प्रभूतस्य ते त्वदीयानि ता तानि कर्माणि तु क्षिप्रं महानि महान्ति भवन्ति । विश्वेष्वित्सर्वेष्वेव सवनेषु प्रातः सवनादिकर्मसु त्वदीयानि कर्माणि प्रवाच्या प्रवाच्यानि स्तोतृभिः प्रकर्षेण वक्तुं योग्यानि स्तुत्यानीति यत् । हे धृष्णो प्रगल्भ हे शूर विक्रान्तेन्द्र दधृष्वान्पालकत्वेन लोकान्धारयन् शवसा बलेन युक्तस्त्वं धृषता धर्षकेण वज्रेणाहिं वृत्रमसुरमविवेषीः अवधीरिति यत् । एतदादीनि कर्माणि महान्तीति पूर्वेण सम्बन्धः । अत्राविवेषीरिति वधकर्मा ॥ ५ ॥