श्रवणम्

4.22.7
अत्राह᳚ ते हरिव॒स्ता उ᳚ दे॒वीरवो᳚भिरिन्द्र स्तवन्त॒ स्वसा᳚रः ।
यत्सी॒मनु॒ प्र मु॒चो ब᳚द्बधा॒ना दी॒र्घामनु॒ प्रसि᳚तिं स्यन्द॒यध्यै᳚ ॥
▶ पदपाठः (Word-by-word)
अत्र᳚ । अह᳚ । ते॒ । ह॒रि॒॑वः॒ । ताः । ऊं॒ इति᳚ । दे॒वीः । अवः᳚॑भिः । इ॒न्द्र॒ । स्त॒व॒न्त॒ । स्वसा᳚रः ।
यत् । सी॒म् । अनु᳚ । प्र । मु॒चः । ब॒द्ब॒धा॒नाः । दी॒र्घाम् । अनु᳚ । प्र॑सि᳚तिम् । स्य॒न्द॒यध्यै᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं यद्याद बद्बधाना वृत्रेण बध्यमानाः सीमनु एना नदीरुद्दिश्य दीर्घामत्यधिकां प्रसितिं बन्धनमनु स्यन्दयध्यै यथाकामं स्यन्दितुं प्र मुचः । प्रकर्षेणामोचयः । हे हरिवो हरिवन्निन्द्र अत्राहत्रैव मोचनमेलायां ता उ ताः प्रसिद्धा एव देवीर्देव्यो द्योतमानाः स्वसारो नद्यः । अत्र स्वसृशब्दो नदीवाची । अवोभिस्त्वत्कृतै रक्षणैस्ते त्वां स्तवन्त । स्तावयन्ति । नदीपूरणादिभिः कर्मभिर्जना इन्द्रं स्तुवन्तीत्यर्थः ॥ ७ ॥