श्रवणम्

4.22.8
पि॒पी॒ळे अं॒शुर्मद्यो॒ न सिन्धु॒रा त्वा॒ शमी᳚ शशमा॒नस्य᳚ श॒क्तिः ।
अ॒स्म॒द्र्य᳚क्छुशुचा॒नस्य᳚ यम्या आ॒शुर्न र॒श्मिं तु॒व्योज᳚सं॒ गोः ॥
▶ पदपाठः (Word-by-word)
पि॒पी॒ळे । अं॒शुः । मद्यः᳚ । न । सिन्धुः᳚ । आ । त्वा॒ । शमी᳚ । श॒श॒मा॒नस्य᳚ । श॒क्तिः ।
अ॒स्म॒द्र्य᳚क् । शु॒शु॒चा॒नस्य᳚ । य॒म्याः॒ । आ॒शुः । न । र॒श्मिम् । तु॒वि॒॑ओज᳚सम् । गोः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र मद्यो मादयितांशुः सोमः पिपीळे । आपीड्यत । अभ्यसूयतेत्यर्थः । नेति सम्प्रत्यर्थे । न इदानीं सिन्धुः स्यन्दमानः सोमस्त्वा त्वामायम्याः । आयच्छतु । शुशुचास्य दीप्यमानस्य शशमानस्य स्तुवतः सम्बन्ध्यस्यद्र्यगस्मदभिमुखं शमी शमनं शक्तिः स्तुतिकर्म चायच्छतु । तत्र दृष्टान्तः । आशुः शीघ्रगामी यन्ता गोर्गन्तुरश्वस्य तुव्योजसं बहुबलम् । दृढमित्यर्थः । रश्मिं न अश्वबन्धनरज्जुमिव तद्वत् ॥ ८ ॥