श्रवणम्

4.22.10
अ॒स्माक॒मित्सु शृ᳚णुहि॒ त्वमि᳚न्द्रा॒स्मभ्यं᳚ चि॒त्रा{4} उप᳚ माहि॒ वाजा᳚न् ।
अ॒स्मभ्यं॒ विश्वा᳚ इषण॒ः पुरं᳚धीर॒स्माकं॒ सु म᳚घवन्बोधि गो॒दाः ॥
▶ पदपाठः (Word-by-word)
अ॒स्माक᳚म्् । इत् । सु । शृ॒णु॒हि॒ । त्वम् । इ॒न्द्र॒ । अ॒स्मभ्य᳚म् । चि॒त्रान् । उप᳚ । मा॒हि॒ । वाजा᳚न् ।
अ॒स्मभ्य᳚म् । विश्वाः᳚ । इ॒ष॒णः॒ । पुर᳚म्॑धीः । अ॒स्माक᳚म् । सु । म॒घ॒॑व॒न् । बो॒धि॒ । गो॒॑दाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वमस्माकमित् अस्मदीया एव स्तुतीः सु सुष्ठु शृणुहि । तथा हे इन्द्र त्वं चित्रान् चायनीयानि वाजानन्नान्यस्मभ्यमुप माहि । देहि । किञ्च अस्मभ्यं विश्वाः सर्वाः पुरन्धीर्बुद्धीरिषणः । प्रेरय । अपि च हे मघवन्धनवन्निन्द्र अस्माकं गोदा गवां दाता सु सुष्ठु बोधि । भव ॥ १० ॥