श्रवणम्

4.22.3 समानपद
यो दे॒वो दे॒वत᳚मो॒ जाय᳚मानो म॒हो वाजे᳚भिर्म॒हद्भि᳚श्च॒ शुष्मै᳚ः ।
दधा᳚नो॒ वज्रं᳚ बा॒ह्वोरु॒शन्तं॒ द्याममे᳚न रेजय॒त्प्र भूम᳚ ॥
▶ पदपाठः (Word-by-word)
यः । दे॒वः । दे॒व॑त᳚मः । जाय᳚मानः । म॒हः । वाजे᳚भिः । म॒हत्॑भिः᳚ । च॒ । शुष्मैः᳚ ।
दधा᳚नः । वज्र᳚म् । बा॒ह्वोः । उ॒शन्त᳚म् । द्याम् । अमे᳚न । रे॒ज॒य॒त् । प्र । भूम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवो दीप्यमानो देवतमो दातृतमो जायमान उत्पद्यमानो य इन्द्रो महो महद्भिर्वाजेभिरन्नैर्महद्भिः शुष्मैर्बलैश्च । युक्तोऽभवदिति शेशः । स इन्द्रो बाह्वोर्हस्तयोरुशन्तं कामयमानं वज्रं दधानो धारयन् अमेन बलेन द्यां द्युलोकं च भूम भूलोकं च प्र रेजयत् । प्रकम्पयति स्म ॥ ३ ॥