श्रवणम्

4.22.6
ता तू ते᳚ स॒त्या तु᳚विनृम्ण॒ विश्वा॒ प्र धे॒नवः᳚ सिस्रते॒ वृष्ण॒ ऊध्न᳚ः ।
अधा᳚ ह॒ त्वद्वृ᳚षमणो भिया॒नाः प्र सिन्ध᳚वो॒ जव᳚सा चक्रमन्त ॥
▶ पदपाठः (Word-by-word)
ता । तु । ते॒ । स॒त्या । तु॒वि॒॑नृ॒म्ण॒ । विश्वा᳚ । प्र । धे॒नवः᳚ । सि॒स्र॒ते॒ । वृष्णः᳚ । ऊध्नः᳚ ।
अध᳚ । ह॒ । त्वत् । वृ॒ष॒॑म॒नः॒ । भि॒या॒नाः । प्र । सिन्ध᳚वः । जव᳚सा । च॒क्र॒म॒न्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे तुविनृम्णाधिकबलेन्द्र ते त्वदीयानि विश्वा विश्वानि ता तानि कर्माणि तु क्शिप्रं सत्या सत्यानि भवन्ति । हे इन्द्र वृष्णः कामानां वर्शितुस्त्वत्तो भयाद्धेनवो गव ऊध्नः स्वकीयादापीनात्प्रसिस्रते । प्रकर्षेण क्षीरं क्शरन्ति । अधापि च हे वृषमनः कामानां वर्षणपरमनस्केन्द्र सिन्धवो नद्यस्त्वत्त्वत्तोभियाना बिभ्यत्यः सत्यो जवसा वेगेन प्र चक्रमन्त ह । प्रकर्षेण गच्छन्ति खलु ॥ ६ ॥