अ॒स्मे वर्षि᳚ष्ठा कृणुहि॒ ज्येष्ठा᳚ नृ॒म्णानि᳚ स॒त्रा स᳚हुरे॒ सहां᳚सि ।
अ॒स्मभ्यं᳚ वृ॒त्रा सु॒हना᳚नि रन्धि ज॒हि वध᳚र्व॒नुषो॒ मर्त्य᳚स्य ॥
अ॒स्मभ्यं᳚ वृ॒त्रा सु॒हना᳚नि रन्धि ज॒हि वध᳚र्व॒नुषो॒ मर्त्य᳚स्य ॥
पदपाठः (Word-by-word)
अ॒स्मे इति᳚ । वर्षि᳚ष्ठा । कृ॒णु॒हि॒ । ज्येष्ठा᳚ । नृ॒म्णानि᳚ । स॒त्रा । स॒हु॒रे॒ । सहां᳚सि ।
अ॒स्मभ्य᳚म् । वृ॒त्रा । सु॒॑हना᳚नि । र॒न्धि॒ । ज॒हि । वधः᳚ । व॒नुषः᳚ । मर्त्य᳚स्य ॥
अ॒स्मभ्य᳚म् । वृ॒त्रा । सु॒॑हना᳚नि । र॒न्धि॒ । ज॒हि । वधः᳚ । व॒नुषः᳚ । मर्त्य᳚स्य ॥
सायणभाष्यम् (Sayana Commentary)
हे सहुरे सहनशीलेन्द्र त्वं सत्रा सर्वदा सहांसि शत्रूनभिभावुकानि वर्षिष्ठा वर्षिष्थानि प्रवृद्धानि ज्येष्था ज्येष्थानि प्रशस्तानि नृम्णानि बलान्यस्मे अस्मभ्यं क्रुणुहि । कुरु । हे इन्द्र त्वमस्मभ्यम् सुहनानि शोभनवधानि व्रुत्रा व्रुत्राणि शत्रून् रन्धि । रन्धय । वशं नय । किञ्च वनुषो किंसकस्य मर्त्यस्य मरणधर्मणः शत्रोः संबन्धि वधो हननसाधनमायुधं जहि । नाशय ॥ ९ ॥