श्रवणम्

4.34.1
ऋ॒भुर्विभ्वा॒ वाज॒ इन्द्रो᳚ नो॒ अच्छे॒मं य॒ज्ञं र᳚त्न॒धेयोप᳚ यात ।
इ॒दा हि वो᳚ धि॒षणा᳚ दे॒व्यह्ना॒मधा᳚त्पी॒तिं सं मदा᳚ अग्मता वः ॥
▶ पदपाठः (Word-by-word)
ऋ॒भुः । वि॑भ्वा᳚ । वाजः᳚ । इन्द्रः᳚ । नः॒ । अच्छ᳚ । इ॒मम् । य॒ज्ञम् । र॒त्न॒॑धेया᳚ । उप᳚ । या॒त॒ ।
इ॒दा । हि । वः॒ । धि॒षणा᳚ । दे॒वी । अह्ना᳚म् । अधा᳚त् । पी॒तिम् । सम् । मदाः᳚ । अ॒ग्म॒त॒ । वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋभुर्विभ्वेत्येकादशर्चं द्वितीयं सूक्तं वामदेवस्यार्षं त्रैष्टुभमार्भवम् । ऋभिर्विभ्वेत्यनुक्रमणिका । व्य़ूढे दशरात्रे पञ्चमेऽहनि वैश्वदेवशस्त्र आर्भवनिविद्धानीयमिदम् । ऋभुर्विभ्वा स्तुषे जिनम् । आ. ८-८ । इति सूत्रितत्वात् ॥

ऋभुर्विभ्वा वाज इन्द्रश्चैते देवा नोऽस्मदीयमिमं यज्ञमच्छाभिमुखं रत्नधेयास्मभ्यं रतनधानायोप यात । उपगच्छत । ननु इन्द्रः सोमस्वामित्वादागच्छतु कथमेतेषां यज्ञप्राप्तिरिति चेत् । उच्यते । इदा हीदानीं खलु वो युष्माकं धिषणा वाक् देवी प्रजापतेः सम्बन्धिन्यह्नां सोमाभिषवसम्बन्धिनां पीतिं सोमपानमधात् । स प्रजापतिरब्रवीत्सवितारं तव वा इमेऽन्तेवासास्त्वमेवैभिः सम्पिबस्व । ऐ. ब्रां. ३-३० । इति ब्राह्मणम् । यस्मादेवं तस्मान्मदाश्च वो युष्मान् समग्मत । सङ्गताः । यद्वा । वा मदा देवैः सङ्गताः ॥ १ ॥