श्रवणम्

4.34.5
आ वा᳚जा या॒तोप᳚ न ऋभुक्षा म॒हो न᳚रो॒ द्रवि᳚णसो गृणा॒नाः ।
आ वः᳚ पी॒तयो᳚॑भिपि॒त्वे अह्ना᳚मि॒मा अस्तं᳚ नव॒स्व᳚ इव ग्मन् ॥
▶ पदपाठः (Word-by-word)
आ । वा॒जाः॒ । या॒त॒ । उप᳚ । नः॒ । ऋ॒भु॒क्षाः॒ । म॒हः । न॒रः॒ । द्रवि᳚णसः । गृ॒णा॒नाः ।
आ । वः॒ । पी॒तयः᳚ । अ॒भि॒॑पि॒त्वे । अह्ना᳚म् । इ॒माः । अस्त᳚म् । न॒व॒स्वः᳚॑इव । ग्म॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वजा ऋभुक्षा नरो नेतारो यूयं न उपा यात । किं कुर्वन्तः । महो महतो द्रविणसो धनस्य । कर्मणि षष्ठ्यौ । महत् द्रविणं गृणानाः । स्तुवन्तः । किञ्च अह्नामभिपित्वेऽभिपतने समाप्तौ । तृतीये सवन इत्यर्थः । वो युष्मानिमाः पीतयः पानान्या ग्मन् । आगच्छन्ति । तत्र दृष्तान्तः । अस्तम् । गृहनामैतत् । गृहं नवस्वो नवप्रसवा गाव इव ॥ ५ ॥