श्रवणम्

4.34.7
स॒जोषा᳚ इन्द्र॒ वरु᳚णेन॒ सोमं᳚ स॒जोषा᳚ः पाहि गिर्वणो म॒रुद्भि᳚ः ।
अ॒ग्रे॒पाभि᳚रृतु॒पाभि᳚ः स॒जोषा॒ ग्नास्पत्नी᳚भी रत्न॒धाभि᳚ः स॒जोषा᳚ः ॥
▶ पदपाठः (Word-by-word)
स॒॑जोषाः᳚ । इ॒न्द्र॒ । वरु᳚णेन । सोम᳚म् । स॒॑जोषाः᳚ । पा॒हि॒ । गि॒र्व॒णः॒ । म॒रुत्॑भिः᳚ ।
अ॒ग्रे॒॑पाभिः᳚ । ऋ॒तु॒॑पाभिः᳚ । स॒॑जोषाः᳚ । ग्नाःपत्नी᳚भिः । र॒त्न॒॑धाभिः᳚ । स॒॑जोषाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं वरुणेन रात्र्यभिमानिदेवेन सजोषाः समानप्रीतिः सन् सोमं पाहि । पिब । हे गिर्वणो गीर्भिर्वननीय सम्भजनीयेन्द्र त्वं मरुद्भिः सजोषाः सङ्गतः सन् सोमं पाहि । पिब । किञ्च अग्रेपाभिः प्रथमपातृभिऋतुपाभिऋतुयाजदेवैश्च ग्नाःपत्नीभिः । स्त्रीणां पालयित्र्यो देव्यो ग्नाःपत्न्यः । ताभिः । मेनाब्ना इति स्त्रीणामिति निरुक्तम् । ३-२१ । रत्नधाभी रमणीयधनदातृभिऋभुभिः सह पिब । यद्वा । एतत् ग्नाःपत्नीभिरित्यस्य विशेषनम् । ताभिर्वा सजोषाः सोमं पिब ॥ ७ ॥