श्रवणम्

4.34.8 समानपद
स॒जोष᳚स आदि॒त्यैर्मा᳚दयध्वं स॒जोष᳚स ऋभव॒ः पर्व᳚तेभिः ।
स॒जोष᳚सो॒ दैव्ये᳚ना सवि॒त्रा स॒जोष᳚स॒ः सिन्धु᳚भी रत्न॒धेभि᳚ः ॥
▶ पदपाठः (Word-by-word)
स॒॑जोष᳚सः । आ॒दि॒त्यैः । मा॒द॒य॒ध्व॒म् । स॒॑जोष᳚सः । ऋ॒भ॒वः॒ । पर्व᳚तेभिः ।
स॒॑जोष᳚सः । दैव्ये᳚न । स॒वि॒त्रा । स॒॑जोष᳚सः । सिन्धु᳚॑भिः । र॒त्न॒॑धेभिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ए ऋभव आदित्यैः सजोषसः सङ्गता यूयं माधयध्वम् । तथा पर्वतेभिः पर्ववद्भिः पर्वण्यर्च्यमानैर्देवविशेषैः सजोषसो मादयध्वम् । तथा च दैव्येन देवेभ्यो हितेन सवित्रा सजोषसो रत्नधेभी रत्नानां दातृभि सिन्धुभिः स्यन्दनस्वभावैर्नद्यभिमानिदेवैश्च सजोषसो मादयध्वं ॥ ८ ॥