वि॒दा॒नासो॒ जन्म᳚नो वाजरत्ना उ॒त ऋ॒तुभि᳚रृभवो मादयध्वम् ।
सं वो॒ मदा॒ अग्म᳚त॒ सं पुरं᳚धिः सु॒वीरा᳚म॒स्मे र॒यिमेर᳚यध्वम् ॥
सं वो॒ मदा॒ अग्म᳚त॒ सं पुरं᳚धिः सु॒वीरा᳚म॒स्मे र॒यिमेर᳚यध्वम् ॥
पदपाठः (Word-by-word)
वि॒दा॒नासः᳚ । जन्म᳚नः । वा॒ज॒॑र॒त्नाः॒ । उ॒त । ऋ॒तु॑भिः᳚ । ऋ॒भ॒वः॒ । मा॒द॒य॒ध्व॒म् ।
सम् । वः॒ । मदाः᳚ । अग्म᳚त । सम् । पुर᳚म्॑धिः । सु॒॑वीरा᳚म् । अ॒स्मे इति᳚ । र॒यिम् । आ । ई॒र॒य॒ध्व॒म् ॥
सम् । वः॒ । मदाः᳚ । अग्म᳚त । सम् । पुर᳚म्॑धिः । सु॒॑वीरा᳚म् । अ॒स्मे इति᳚ । र॒यिम् । आ । ई॒र॒य॒ध्व॒म् ॥
सायणभाष्यम् (Sayana Commentary)
हे वाजरत्नाः सोमलक्षणेनान्नेन राजमाना ऋभवो यूयं जन्मनो जननस्य देवत्वलक्षनस्य देवत्व प्राप्तिं विदानासो जानन्तः । यद्वा । विदानासः सोमप्राप्तिं जानन्तो जन्मनः पूर्वं मनुष्यजन्मवंतश्च सन्तः । उतशब्दाश्चार्थे । ऋतुभिर्देवैः सह मादयध्वम् । वो युष्मान्मदाः सोमपानजनिताः समग्मत । सङ्गताः । उउरन्धिः स्तुतिरपि समग्मत । ते यूयमस्मे अस्माकं सुवीरां शोभनैर्वीरैः पुत्रैरुपेतां रयिमेरयध्वम् । प्रेरयत ॥ २ ॥