अ॒यं वो᳚ य॒ज्ञ ऋ᳚भवो॑कारि॒ यमा म᳚नु॒ष्वत्प्र॒दिवो᳚ दधि॒ध्वे ।
प्र वो॑च्छा᳚ जुजुषा॒णासो᳚ अस्थु॒रभू᳚त॒ विश्वे᳚ अग्रि॒योत वा᳚जाः ॥
प्र वो॑च्छा᳚ जुजुषा॒णासो᳚ अस्थु॒रभू᳚त॒ विश्वे᳚ अग्रि॒योत वा᳚जाः ॥
पदपाठः (Word-by-word)
अ॒यम् । वः॒ । य॒ज्ञः । ऋ॒भ॒वः॒ । अ॒का॒रि॒ । यम् । आ । म॒नु॒ष्वत् । प्र॒॑दिवः᳚ । द॒धि॒ध्वे ।
प्र । वः॒ । अच्छ᳚ । जु॒जु॒षा॒णासः᳚ । अ॒स्थुः॒ । अभू᳚त । विश्वे᳚ । अ॒ग्रि॒या । उ॒त । वा॒जाः॒ ॥
प्र । वः॒ । अच्छ᳚ । जु॒जु॒षा॒णासः᳚ । अ॒स्थुः॒ । अभू᳚त । विश्वे᳚ । अ॒ग्रि॒या । उ॒त । वा॒जाः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे ऋभव्वो वो युष्मदर्थमयं यज्ञोऽकारि । यं यज्ञं मनुष्वन्मनुष्यवत्प्रदिवः प्रकर्षेण द्योतमानाः सन्त आ दधिध्वे । धारयत जठरे । तदर्थं वो युष्मानच्छाभिमुख्येन जुजुषाणासः सेवमानाः सोमाः प्रास्थुः प्रतिष्थन्ते । उतापि च धारयित्वा च हे वाजा ऋभवो विश्वे यूयमग्रियाग्रार्हा अग्रत्वसम्पादिनो वा अभूत । भवथ ॥ ३ ॥