श्रवणम्

4.34.10
ये गोम᳚न्तं॒ वाज᳚वन्तं सु॒वीरं᳚ र॒यिं ध॒त्थ वसु᳚मन्तं पुरु॒क्षुम् ।
ते अ᳚ग्रे॒पा ऋ᳚भवो मन्दसा॒ना अ॒स्मे ध᳚त्त॒ ये च᳚ रा॒तिं गृ॒णन्ति᳚ ॥
▶ पदपाठः (Word-by-word)
ये । गो॑म᳚न्तम् । वाज᳚॑वन्तम् । सु॒॑वीर᳚म् । र॒यिम् । ध॒त्थ । वसु᳚॑मन्तम् । पु॒रु॒॑क्षुम् ।
ते । अ॒ग्रे॒॑पाः । ऋ॒भ॒वः॒ । म॒न्द॒सा॒नाः । अ॒स्मे इति᳚ । ध॒त्त॒ । ये । च॒ । रा॒तिम् । गृ॒णन्ति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋभवो ये यूयं गोमन्तं गोसहितं वाजवन्तमन्नवन्तं सुवीरं शोभनपुत्रोपेतं वसुमन्तं निवासयोग्यगृहादिधनोपेतं पुरुक्शुं बह्वन्नं रयिं धनं धत्थ । धारयथ मह्यं दातुम् । हे ऋभवस्ते यूयमग्रेपाः प्रथमं पातारो मन्दसाना माद्यन्तः सन्तोऽस्मे अस्मभ्यं धत्त । दत्त रयिम् । ये च यूयं रातिं दानं दत्तं सोमं वा गृणन्ति । स्तुवन्ति । ते धत्त । यद्वा । ये च रातिं गृणन्ति यजमानास्तेभ्योऽपि धत्त ॥ १० ॥