श्रवणम्

4.34.9
ये अ॒श्विना॒ ये पि॒तरा॒ य ऊ॒ती धे॒नुं त᳚त॒क्षुरृ॒भवो॒ ये अश्वा᳚ ।
ये अंस᳚त्रा॒ य ऋध॒ग्रोद᳚सी॒ ये विभ्वो॒ नरः᳚ स्वप॒त्यानि᳚ च॒क्रुः ॥
▶ पदपाठः (Word-by-word)
ये । अ॒श्विना᳚᳚ । ये । पि॒तरा᳚ । ये । ऊ॒ती । धे॒नुम् । त॒त॒क्षुः । ऋ॒भवः᳚ । ये । अश्वा᳚ ।
ये । अंस᳚त्रा । ये । ऋध᳚क् । रोद᳚सी॒ इति᳚ । ये । वि॑भ्वः᳚ । नरः᳚ । सु॒॑अ॒प॒त्यानि᳚ । च॒क्रुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

य ऋभवोऽश्विनाश्विनावूती ऊत्या क्रियया रथनिर्मानरूपयाप्रीणयन् । ये च पितरा पितरौ ततक्षुः तक्षणेन समपादयन् जीर्णौ सन्तावूती ऊत्या युवानौ चक्रुः । ये च धेनुं ततक्षुः मृतायाः पुनर्नवीकरणेन । ये चाश्वाश्वौ ततक्षुः । निश्चर्मणो गामरिणीत धीतिभिर्या जरन्ता युवशा ताकृणोतनेत्याद्युक्तम् । ऋग्वे. १-१६१-७ । ये चांसत्राम्सत्राणि कवचानि देवेभ्यश्चक्रुः । ये च रोदसी द्यावापृथिव्याव्रुधक् पृथक्चक्रुः । एवमुक्तप्रकारेण ये विभ्वो व्याप्ता ऋभवो नरो नेतारः स्वपत्यानि स्वपतनसाधनानि तत्प्राप्तिसाधनानि वा कर्माणि चक्रुः । तेऽग्रेपा इत्युत्तरत्र सम्बन्धः ॥ ९ ॥