श्रवणम्

4.34.6 समानपद
आ न᳚पातः शवसो यात॒नोपे॒मं य॒ज्ञं नम᳚सा हू॒यमा᳚नाः ।
स॒जोष᳚सः सूरयो॒ यस्य᳚ च॒ स्थ मध्व᳚ः पात रत्न॒धा इन्द्र᳚वन्तः ॥
▶ पदपाठः (Word-by-word)
आ । न॒पा॒तः॒ । श॒व॒सः॒ । या॒त॒न॒ । उप᳚ । इ॒मम् । य॒ज्ञम् । नम᳚सा । हू॒यमा᳚नाः ।
स॒॑जोष᳚सः । सू॒र॒यः॒ । यस्य᳚ । च॒ । स्थ । मध्वः᳚ । पा॒त॒ । र॒त्न॒॑धाः । इन्द्र᳚॑वन्तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शवसो नपातो बलस्य न पातयितारस्तस्य पुत्रावा । बलवन्त इत्यर्थः । यूयं नमसा स्तोत्रेण हूयमाना अकारिताः सन्त इमं यज्ञमुपा यातन । उपागच्छत । कीदृशा यूयम् । सजोषस इन्द्रेण सह प्रीताः सूरयो मेधाविनः । इन्द्रस्य चैषां च कः प्रसङ्ग इत्युच्यते । यस्य च स्थ । चेति प्रसिद्धौ । यस्येन्द्रस्य सम्बन्धिनो यूयं भवथ तदुचिताश्च निर्माणादित्यभिप्रायः । यस्मादेवं तस्मादिन्द्रवन्तः प्रीतेनेन्द्रेण तद्वन्तो रत्नधा रमणीयधनानां दातारो यूयम् मध्वो मधुरं सोमं पात । पिबत ॥ ६ ॥