श्रवणम्

4.38.1
उ॒तो हि वां᳚ दा॒त्रा सन्ति॒ पूर्वा॒ या पू॒रुभ्य᳚स्त्र॒सद᳚स्युर्नितो॒शे ।
क्षे॒त्रा॒सां द᳚दथुरुर्वरा॒सां घ॒नं दस्यु᳚भ्यो अ॒भिभू᳚तिमु॒ग्रम् ॥
▶ पदपाठः (Word-by-word)
उ॒तो इति᳚ । हि । वा॒म् । दा॒त्रा । सन्ति᳚ । पूर्वा᳚ । या । पू॒रु॑भ्यः᳚ । त्र॒सद᳚स्युः । नि॒॑तो॒शे ।
क्षे॒त्र॒॑साम् । द॒द॒थुः॒ । उ॒र्व॒रा॒॑साम् । घ॒नम् । दस्यु᳚॑भ्यः । अ॒भि॑भू᳚तिम् । उ॒ग्रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतो हि वामिति दशर्चं षष्ठं सूक्तम् । वामदेव ऋषिः । त्रिष्टुप् छन्दः । दधिक्रा देवता । आद्या द्यावापृथिव्या । अत्रानुक्रमणिका । उतो हि दश दाधिक्रं हि द्यावापृथिव्याद्येति । विनियोगो लैङ्गिकः ॥

उतो इति पूरणः । अस्या द्यावापृथिव्यत्वादत्र तद्वाचकशब्दाभावेऽपि ते एव सम्बोद्धव्ये । हे द्यावापृथिव्यौ वां युवाभ्यां सकाशाद्दात्रा दानकर्त्रा पौरुकुत्सेन त्रसदस्युना लब्धानि पूर्वा पूर्वाणि पुरातनानि पूरकाणि वा धनानि सन्ति । या यानि धनानि पुरुभ्योर्थिभ्यो मनुष्येभ्यस्त्रसदस्यू राजा नितोशे । न्यतोशत । दत्तवान् । क्षेत्रसाम् । क्षेत्राणि सर्वा भूमीः सनोतीति क्षेत्रसा अश्वः । तं ददथुः । तथोर्वरासाम् । उर्वरा सर्वसस्याढ्या भूः । तां सनोतीत्युर्वरासाः पुत्रः । तं ददथुः । घनं हननार्हमायुधं दस्युभ्यो दस्यूनां वधार्थं च ददथुः । कीदृशमायुधम् । अभिभूतिमभिभवितारमुग्रमुद्गूर्णबलम् । यद्वा । उत्तरार्धमेकं वाक्यम् । दातव्यानि धनान्युक्तलक्षनं पुत्रं च ददथुः । दत्तवत्यौ स्थः । तानि मह्यमपि ददाथामित्यर्थः ॥ १ ॥