श्रवणम्

4.38.9
उ॒त स्मा᳚स्य पनयन्ति॒ जना᳚ जू॒तिं कृ᳚ष्टि॒प्रो अ॒भिभू᳚तिमा॒शोः ।
उ॒तैन᳚माहुः समि॒थे वि॒यन्त॒ः परा᳚ दधि॒क्रा अ᳚सरत्स॒हस्रै᳚ः ॥
▶ पदपाठः (Word-by-word)
उ॒त । स्म॒ । अ॒स्य॒ । प॒न॒य॒न्ति॒ । जनाः᳚ । जू॒तिम् । कृ॒ष्टि॒॑प्रः । अ॒भि॑भू᳚तिम् । आ॒शोः ।
उ॒त । ए॒न॒म् । आ॒हुः॒ । स॒म्॑इ॒थे । वि॒॑यन्तः᳚ । परा᳚ । द॒धि॒॑क्राः । अ॒स॒र॒त् । स॒हस्रैः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उत स्म अपि च खल्वस्य दधिक्राव्णोऽभिभूतिमभिभवित्रीं जूतिं पराभिभूतिं चेत्युभयं वा जनाः पनयन्ति । स्तुवन्ति । कीदृशस्यास्य । कृष्तिप्रः । कृष्टयो मनुष्याः । तेषां पूरकस्याशोर्व्याप्तस्य वेगवतो वा । उतापि चैनं समिथे सङ्र्ग्रामे वियन्तो विविधं गच्छान्तो जना अयं दधिक्रा देवः सहस्रैरनुचरैः परिवृतः परासरदिति अस्मान्विहायान्यान् हन्तुं गत इत्याहुः । यद्वा । एनमेव माहुः वियन्तः शत्रवः परा । भवन्तीति शेषः । दधिक्राः सहस्रैरसरत् । तच्छतीति ॥ ९ ॥