श्रवणम्

4.38.3
यं सी॒मनु᳚ प्र॒वते᳚व॒ द्रव᳚न्तं॒ विश्व᳚ः पू॒रुर्मद᳚ति॒ हर्ष᳚माणः ।
प॒ड्भिर्गृध्य᳚न्तं मेध॒युं न शूरं᳚ रथ॒तुरं॒ वात᳚मिव॒ ध्रज᳚न्तम् ॥
▶ पदपाठः (Word-by-word)
यम् । सी॒म् । अनु᳚ । प्र॒वता᳚॑इव । द्रव᳚न्तम् । विश्वः᳚ । पू॒रुः । मद᳚ति । हर्ष᳚माणः ।
प॒ट्॑भिः । गृध्य᳚न्तम् । मे॒ध॒॑युम् । न । शूर᳚म् । र॒थ॒॑तुर᳚म् । वात᳚म्॑इव । ध्रज᳚न्तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यं दधिक्रां विश्वः पूरुः सर्वोऽपि मनुष्यो हर्षमाणो हृष्यन् हर्षयन्वा मदति । स्तौति । तं देवं द्यावापृथिव्यौ ददथुरिति सम्बन्धः । स द्वो विशेष्यते । सीं सर्वतः प्रवता प्रवणवता निम्नेन मार्गेणोदकमिवानुक्रमेण द्रवन्तं गच्छन्तं षड्भिः पादैर्गृध्यन्तमभिका~क्षन्तं दिशो लङ्घितुम् । तत्र दृष्टान्तः । मेधयुं न शूरम् । सङ्ग्रामेच्छुं शूरमिव । यद्वा । यज्ञक्रमेणेच्छुमध्वर्व्यादिकमिव । रथतुरं रथेन गच्छान्तं वातमिव ध्रजन्तं शीघ्रगं वायुमिव । उक्त विशेषविशिष्टानुदकशूरवायून्यथा सर्वो जनः स्तौति तथा यं देवं स्तौति तं ददथुरित्यर्थः ॥ ३ ॥