उ॒त स्मा᳚स्य तन्य॒तोरि᳚व॒ द्योरृ᳚घाय॒तो अ᳚भि॒युजो᳚ भयन्ते ।
य॒दा स॒हस्र᳚म॒भि षी॒मयो᳚धीद्दु॒र्वर्तु᳚ः स्मा भवति भी॒म ऋ॒ञ्जन् ॥
य॒दा स॒हस्र᳚म॒भि षी॒मयो᳚धीद्दु॒र्वर्तु᳚ः स्मा भवति भी॒म ऋ॒ञ्जन् ॥
पदपाठः (Word-by-word)
उ॒त । स्म॒ । अ॒स्य॒ । त॒न्य॒तोः॑इ᳚व । द्योः । ऋ॒घा॒य॒तः । अ॒भि॒॑युजः᳚ । भ॒य॒न्ते॒ ।
य॒दा । स॒हस्र᳚म् । अ॒भि । सी॒म् । अयो᳚धीत् । दुः॒॑वर्तुः᳚ । स्म॒ । भ॒व॒ति॒ । भी॒मः । ऋ॒ञ्जन् ॥
य॒दा । स॒हस्र᳚म् । अ॒भि । सी॒म् । अयो᳚धीत् । दुः॒॑वर्तुः᳚ । स्म॒ । भ॒व॒ति॒ । भी॒मः । ऋ॒ञ्जन् ॥
सायणभाष्यम् (Sayana Commentary)
उत स्म अपि च खलु द्योर्दीप्यमानात्तन्यतोः शब्दयितुरशनेरिव ऋघायतो हिंसतोऽस्यास्माद्दधिक्रावाख्याद्देवादभियुजोऽभियोक्तारोऽसुरा भयन्ते । बिभ्यति । किञ्चायं यदा सीं सर्वतः सहस्रमभ्ययोधीत् । सम्प्र्हरेत् । तदा ऋञ्जन् प्रसाधयन्नात्मानं भीमो भयहेतुर्दुर्वर्तुर्दुर्वारश्च भवति ॥ ८ ॥