उ॒त स्मै᳚नं वस्त्र॒मथिं॒ न ता॒युमनु᳚ क्रोशन्ति क्षि॒तयो॒ भरे᳚षु ।
नी॒चाय᳚मानं॒ जसु᳚रिं॒ न श्ये॒नं श्रव॒श्चाच्छा᳚ पशु॒मच्च᳚ यू॒थम् ॥
नी॒चाय᳚मानं॒ जसु᳚रिं॒ न श्ये॒नं श्रव॒श्चाच्छा᳚ पशु॒मच्च᳚ यू॒थम् ॥
पदपाठः (Word-by-word)
उ॒त । स्म॒ । ए॒न॒म् । व॒स्त्र॒॑मथि᳚म् । न । ता॒युम् । अनु᳚ । क्रो॒श॒न्ति॒ । क्षि॒तयः᳚ । भरे᳚षु ।
नी॒चा । अय᳚मानम् । जसु᳚रिम् । न । श्ये॒नम् । श्रवः᳚ । च॒ । अच्छ᳚ । प॒शु॒॑मत् । च॒ । यू॒थम् ॥
नी॒चा । अय᳚मानम् । जसु᳚रिम् । न । श्ये॒नम् । श्रवः᳚ । च॒ । अच्छ᳚ । प॒शु॒॑मत् । च॒ । यू॒थम् ॥
सायणभाष्यम् (Sayana Commentary)
उत स्म अपि खल्वेनं दधिक्रां भरेषु सङ्रामेषु वस्त्रमथिं तायुं न वस्त्रमाथिनं तस्करमिव । तं दृष्ट्वा क्षितयो मनुष्या यथानु क्रोशन्ति तद्वद्वैरिणोऽनुक्रोशन्ति । किञ्च नीचा नीचैरयमानं गच्छन्तं जसुरिं न श्येनं क्षुधितं श्येनं पक्षिणमिव । तं यथा दृष्ट्वा पक्षिणः पलायन्ते तद्वत् । श्रवोऽन्नं कीर्तिं वा पशुमद्यूथं चाच्छाभिलक्ष्य गच्छन्तमेनमनुक्रोशन्तीति सम्बन्धः । अपि स्मैनं वस्त्रमथिमिव वस्त्रमाथिनमित्यादिनिरुक्तमत्रानुसन्धेयम् ॥ नि. ४-२४ ॥ ५ ॥