श्रवणम्

4.38.7
उ॒त स्य वा॒जी सहु᳚रिरृ॒तावा॒ शुश्रू᳚षमाणस्त॒न्वा᳚ सम॒र्ये ।
तुरं᳚ य॒तीषु᳚ तु॒रय᳚न्नृजि॒प्यो॑धि᳚ भ्रु॒वोः कि᳚रते रे॒णुमृ॒ञ्जन् ॥
▶ पदपाठः (Word-by-word)
उ॒त । स्यः । वा॒जी । सहु᳚रिः । ऋ॒त॑वा᳚ । शुश्रू᳚षमाणः । त॒न्वा᳚ । स॒॑म॒र्ये ।
तुर᳚म् । य॒तीषु᳚ । तु॒रय᳚न् । ऋ॒जि॒प्यः । अधि᳚ । भ्रु॒वोः । कि॒र॒ते॒ । रे॒णुम् । ऋ॒ञ्जन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उत अपि च स्य स उक्तल्क्षणो वाजी वेजनवान् गमनवान् समर्ये समरणे सहुरिः सहनशीलः शत्रूणामृतावान्नवांस्तन्वा स्वावयवेन खुरादिना स्वतनुं शुश्रूषमाणस्तुरं यतीषु त्वरगामिनीष्वसुरसेनासु तुरयन् त्वरयन् ऋजिप्य ऋजुगामी रेणुं धूलिमृञ्जन्प्रसाधयंस्तमेव रेणुं भ्रुवोरध्युपरि किरते । विक्षिपति ॥ ७ ॥