आ द᳚धि॒क्राः शव᳚सा॒ पञ्च᳚ कृ॒ष्टीः सूर्य᳚ इव॒ ज्योति᳚षा॒पस्त᳚तान ।
स॒ह॒स्र॒साः श᳚त॒सा वा॒ज्यर्वा᳚ पृ॒णक्तु॒ मध्वा॒ समि॒मा वचां᳚सि ॥
स॒ह॒स्र॒साः श᳚त॒सा वा॒ज्यर्वा᳚ पृ॒णक्तु॒ मध्वा॒ समि॒मा वचां᳚सि ॥
पदपाठः (Word-by-word)
आ । द॒धि॒॑क्राः । शव᳚सा । पञ्च᳚ । कृ॒ष्टीः । सूर्यः᳚॑इव । ज्योति᳚षा । अ॒पः । त॒ता॒न॒ ।
स॒ह॒स्र॒॑साः । श॒त॒॑साः । वा॒जी । अर्वा᳚ । पृ॒णक्तु᳚ । मध्वा᳚ । सम् । इ॒मा । वचां᳚सि ॥
स॒ह॒स्र॒॑साः । श॒त॒॑साः । वा॒जी । अर्वा᳚ । पृ॒णक्तु᳚ । मध्वा᳚ । सम् । इ॒मा । वचां᳚सि ॥
सायणभाष्यम् (Sayana Commentary)
पवित्रेष्टावा दधिक्रा इति दधिक्राव्णो याज्या । तथा च सूत्रितम् । दधिक्राव्णो अकारिषमा दधिक्राः शवसा पञ्च कृष्टीः । आ. २-१२ ॥ इति ॥
यो दधिक्रा देवः शवसा बलेन पञ्च कृष्टीः पञ्च जनान् देवमनुष्यासुर रक्षः पितृसंज्ञकान्निषादपञ्चमान् चतुरो वर्णान्वा सूर्यो ज्योतिषा तेजसा यथा जगदावृणोति तद्वदप उदकान्या ततान । आतनोति । सहस्रसाः शतसाः शतानां सहस्राणां च दाता वाजी वेजनवानर्वारनकुशलः स देवो मध्वा मधुना मधुरेण फलेनेमेमान्युक्तानि स्तुतिवाचांसि संपृणक्तु । संयोजयतु ॥ १० ॥