उ॒त वा॒जिनं᳚ पुरुनि॒ष्षिध्वा᳚नं दधि॒क्रामु᳚ ददथुर्वि॒श्वकृ᳚ष्टिम् ।
ऋ॒जि॒प्यं श्ये॒नं प्रु᳚षि॒तप्सु᳚मा॒शुं च॒र्कृत्य᳚म॒र्यो नृ॒पतिं॒ न शूर᳚म् ॥
ऋ॒जि॒प्यं श्ये॒नं प्रु᳚षि॒तप्सु᳚मा॒शुं च॒र्कृत्य᳚म॒र्यो नृ॒पतिं॒ न शूर᳚म् ॥
पदपाठः (Word-by-word)
उ॒त । वा॒जिन᳚म् । पु॒रु॒निः॒॑सिध्वा᳚नम् । द॒धि॒॑क्राम् । ऊं॒ इति᳚ । द॒द॒थुः॒ । वि॒श्व॑कृ᳚ष्टिम् ।
ऋ॒जि॒प्यम् । श्ये॒नम् । प्रु॒षि॒त॑प्सु᳚म् । आ॒शुम् । च॒र्कृत्य᳚म् । अ॒र्यः । नृ॒॑पति᳚म् । न । शूर᳚म् ॥
ऋ॒जि॒प्यम् । श्ये॒नम् । प्रु॒षि॒त॑प्सु᳚म् । आ॒शुम् । च॒र्कृत्य᳚म् । अ॒र्यः । नृ॒॑पति᳚म् । न । शूर᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
उतापि च वाजिनं गमनवन्तम् । अश्वरूपं वा देवं अग्नेरश्वरूपस्यैव दधिक्राख्यत्वात् । अग्नेस्तद्रूपत्वं ब्राह्मणे समाम्नातम् । तानग्निरश्वो भूत्वाभ्यद्रवदिति । पुरुनिष्षिध्वानं पुरूणां बहूनां शत्रूणां निष्षेद्धारं दधिक्राम् । दधदन्यं धारयन् क्रामतीति दधिक्राः । तमेतन्नामकं देवम् । उः उफ्रणः । विश्वकृष्तिम् । विश्वाः कृष्टयो रक्षणीयाः सेवका वा मनुष्या यस्य तम् । ऋजिप्यम् । ऋज्वाप्नोति गच्छतीत्यृजिप्यः । तं श्येनं शंसनीयगमनं प्रुषितप्सुं दीप्तरूपमाशुं व्याप्तं शीघ्रगमनं वार्योऽरेश्चर्कृत्यं कर्तनशीलं शूरं नृपतिं न राजानमिव स्थितं देवं द्यावापृथिव्यौ ददथुः । धारयतः ॥ २ ॥