श्रवणम्

4.38.6 समानपद
उ॒त स्मा᳚सु प्रथ॒मः स᳚रि॒ष्यन्नि वे᳚वेति॒ श्रेणि᳚भी॒ रथा᳚नाम् ।
स्रजं᳚ कृण्वा॒नो जन्यो॒ न शुभ्वा᳚ रे॒णुं रेरि᳚हत्कि॒रणं᳚ दद॒श्वान् ॥
▶ पदपाठः (Word-by-word)
उ॒त । स्म॒ । आ॒सु॒ । प्र॒थ॒मः । स॒रि॒ष्यन् । नि । वे॒वे॒ति॒ । श्रेणि᳚॑भिः । रथा᳚नाम् ।
स्रज᳚म् । कृ॒ण्वा॒नः । जन्यः᳚ । न । शुभ्वा᳚ । रे॒णुम् । रेरि᳚हत् । कि॒रण᳚म् । द॒द॒श्वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उत स्म अपि च खल्वास्वसुरसेनासु सरिष्यन् सर्तुमिच्छन् प्रथमः प्रतम उत्कृष्टतमो मुख्यः सन् रथानां श्रेणिभी राजिभिर्युक्तः सन् नि वेवेति । नितरां गच्छति । इतस्ततो धावति । क इवेति । उच्यते । स्रजम् । सृज्यत उत्पाद्यते रूपनयेति स्रगलंकृतिः । तां कृण्वन्यो जन्यो न जनेभ्यो हितोऽश्व इव सुभ्वा । सुष्ठु भवतिति सुभ्वा शोभनमानः । किरणमास्यगतं खलीनं ददश्वान् दशन् रेणुं स्वपादघातजनितं रेरिहत् । भृशं लेढि ॥ ६ ॥