र॒थीत᳚मं कप॒र्दिन॒मीशा᳚नं॒ राध᳚सो म॒हः ।
रा॒यः सखा᳚यमीमहे ॥
रा॒यः सखा᳚यमीमहे ॥
पदपाठः (Word-by-word)
र॒थि॑त᳚मम् । क॒प॒र्दिन᳚म् । ईशा᳚नम् । राध᳚सः । म॒हः ।
रा॒यः । सखा᳚यम् । ई॒म॒हे॒ ॥
रा॒यः । सखा᳚यम् । ई॒म॒हे॒ ॥
सायणभाष्यम् (Sayana Commentary)
रथितमंअतिशयेनरथिनं यद्वाअतिशयेनरंहितारंनेतारंकपर्दिनं कपर्दश्चूडातद्वान्तं राध्नोत्यनेनेतिराधोधनं महोमहतोराधसोधनस्य- ईशानं स्वामिनं सखायं अस्माकंमित्रं एवंविधुंपूषणंरायोधनानिईमहेयाचामहे ॥ २ ॥