मा॒तुर्दि᳚धि॒षुम᳚ब्रवं॒ स्वसु᳚र्जा॒रः शृ᳚णोतु नः ।
भ्रातेन्द्र᳚स्य॒ सखा॒ मम᳚ ॥
भ्रातेन्द्र᳚स्य॒ सखा॒ मम᳚ ॥
पदपाठः (Word-by-word)
मा॒तुः । दि॒धि॒षुम् । अ॒ब्र॒व॒म् । स्वसुः᳚ । जा॒रः । शृ॒णो॒तु॒ । नः॒ ।
भ्राता᳚ । इन्द्र᳚स्य । सखा᳚ । मम᳚ ॥
भ्राता᳚ । इन्द्र᳚स्य । सखा᳚ । मम᳚ ॥
सायणभाष्यम् (Sayana Commentary)
मातुः निर्मात्र्याः रात्रेः दिधिषुंपतिंपूषणंअब्रवं स्तौमि स्वसुरुषसोजारश्चपूषानोस्माकंस्तोत्राणिश्रृणोतु इन्द्रस्यभ्रातासहजातः पूषममस्तोतुः सखामित्रभूतोस्तु ॥ ५ ॥