श्रवणम्

6.55.3
रा॒यो धारा᳚स्याघृणे॒ वसो᳚ रा॒शिर᳚जाश्व ।
धीव᳚तोधीवत॒ः सखा᳚ ॥
▶ पदपाठः (Word-by-word)
रा॒यः । धारा᳚ । अ॒सि॒ । आ॒घृ॒णे॒ । वसोः᳚ । रा॒शिः । अ॒ज॒॑अ॒श्व॒ ।
धीव᳚तः॑धीवतः । सखा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेआघृणे आगतदीप्ते पूषन् रायोधनस्यधारासि प्रवाहोभवसि स्तोतृभ्योबहुधनंनैरंतर्येण प्रयच्छसीत्यर्थः अजाश्वः अजाः छागाएव- अश्वाः अश्वकार्यापन्नायस्यतादृशपूषन् वसोः वसुनोधनस्यराशिः संघश्चभवसि धनसंघश्चत्वय्येवनिवसतीत्यर्थः धीवतोधीवतः सर्वस्य- स्तोत्रवतः पुरुषस्यसखामित्रभूतश्चभवसि ॥ ३ ॥