श्रवणम्

6.12.1
मध्ये॒ होता᳚ दुरो॒णे ब॒र्हिषो॒ राळ॒ग्निस्तो॒दस्य॒ रोद᳚सी॒ यज᳚ध्यै ।
अ॒यं स सू॒नुः सह᳚स ऋ॒तावा᳚ दू॒रात्सूर्यो॒ न शो॒चिषा᳚ ततान ॥
▶ पदपाठः (Word-by-word)
मध्ये᳚ । होता᳚ । दु॒रो॒णे । ब॒र्हिषः᳚ । राट् । अ॒ग्निः । तो॒दस्य᳚ । रोद᳚सी॒ इति᳚ । यज᳚ध्यै ।
अ॒यम् । सः । सू॒नुः । सह᳚सः । ऋ॒त॑वा᳚ । दू॒रात् । सूर्यः᳚ । न । शो॒चिषा᳚ । त॒ता॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

होता देवानामाह्वाता बर्हिषोयज्ञस्य राट् राजाग्निः तोदस्य तुद्यतेतपसापीड्यतेइतितोदोयजमानः तस्यदुरोणेगृहे मध्येनिषीदतीति- शेषः किमर्थं रोदसी द्यावापृथिव्यौ यजध्यै यष्टुं सतादृशोयं सहसःसूनुः सहसस्पुत्रः ऋतावा सत्यवान् यज्ञवान् वाग्निः सूर्योन सूर्यइव दूरात् दूरतएव शोचिषा तेजसा ततान आतनोति विस्तारयति दूरदेशेवर्तमानोपि सूर्यइवसर्वंजगद्भासयतीत्यर्थः ॥ १ ॥