श्रवणम्

6.12.4
सास्माके᳚भिरे॒तरी॒ न शू॒षैर॒ग्निः ष्ट᳚वे॒ दम॒ आ जा॒तवे᳚दाः ।
द्र्व᳚न्नो व॒न्वन्क्रत्वा॒ नार्वो॒स्रः पि॒तेव᳚ जार॒यायि᳚ य॒ज्ञैः ॥
▶ पदपाठः (Word-by-word)
सः । अ॒स्माके᳚भिः । ए॒तरि᳚ । न । शू॒षैः । अ॒ग्निः । स्त॒वे॒ । दमे᳚ । आ । जा॒त॑वे᳚दाः ।
द्रु॑अ᳚न्नः । व॒न्वन् । क्रत्वा᳚ । न । अर्वा᳚ । उ॒स्रः । पि॒ता॑इ᳚व । जा॒र॒यायि᳚ । य॒ज्ञैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

जातवेदाः जातधनोजातप्रज्ञोवा सोग्निः अस्माकेभिरस्मदीयैः स्तोतृभिः एतरीन एतरिगन्तरि याचमानेपुरुषे विद्यमानानिस्तोत्रा- णियथात्यन्तं सुखकराणि तथा शूषैः सुखकरैःस्तोत्रैः दमेस्मदीयेयज्ञगृहे आ आभिमुख्येन स्तवे स्तूयते अपिच द्व्रन्नः द्रुः द्रुमः सएवअन्नंय- स्यसतथोक्तः अतएव वन्वन् वनानि संभजन् क्रत्वान क्रतुना आत्मीयेनकर्मणाच अर्वा गन्ताभवति तत्रदृष्टान्तः—उस्रः पितेव पितापाल- यितावत्सानांजनकोवा उस्रोवृषभइव सयथा मैथुनार्थंशीघ्रंगच्छतितद्वत् यज्ञैर्यज्ञवद्भिर्यजमानैश्च जारयायि स्तूयते जरतेः स्तुतिकर्मण- एतद्रूपम् ॥ ४ ॥