श्रवणम्

6.12.2
आ यस्मि॒न्त्वे स्वपा᳚के यजत्र॒ यक्ष᳚द्राजन्त्स॒र्वता᳚तेव॒ नु द्यौः ।
त्रि॒ष॒धस्थ᳚स्तत॒रुषो॒ न जंहो᳚ ह॒व्या म॒घानि॒ मानु᳚षा॒ यज᳚ध्यै ॥
▶ पदपाठः (Word-by-word)
आ । यस्मि᳚न् । त्वे इति᳚ । सु । अपा᳚के । य॒ज॒त्र॒ । यक्ष᳚त् । रा॒ज॒न् । स॒र्वता᳚ता॑इव । नु । द्यौः ।
त्रि॒॑स॒धस्थः᳚ । त॒त॒रुषः᳚ । न । जंहः᳚ । ह॒व्या । म॒घानि᳚ । मानु᳚षा । यज᳚ध्यै ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्यौःस्तोता सर्वतातेव इवशब्दःपूरकः यज्ञनामैतत् सर्वतातौ सर्वैस्तायमानेयज्ञे यद्वा सर्वशब्दात् स्वार्थिकस्तातिल् प्रत्ययः सर्वस्तोता हेयजत्र यष्टव्य राजन् राजमानाग्ने अपाके प्राज्ञे त्वे यस्मिंस्त्वेत्वयि सु अत्यन्तं नु क्षिप्रं आयक्षत् आयजति हवींषिजुहोति त्रिषधस्थः त्रिषुलोकेषुसहस्थितः यद्वा गार्हपत्यादिरूपेणत्रिधावस्थितः तादृशस्त्वं तरुषोन तरितासूर्यइव जंहः शीघ्रंगन्ताभव जंहइतिहन्तेर्गतिकर्म- णोरूपं यद्वा तॄप्लवनतरणयोरित्यस्मात्क्वसौरूपंततर्वानिति तस्य षष्ठ्यांरूपमेतत् ततरुषइति तरितुःसूर्यस्येवजंहोवेगस्तवभवत्वित्यर्थः किमर्थं मघानि मंहनीयानि प्रशस्यानि मानुषा मनुष्याणांसंबंधीनि हव्या हव्यानि हवींषि यजध्यै यष्टुं देवेभ्योदातुम् ॥ २ ॥