श्रवणम्

6.12.5
अध᳚ स्मास्य पनयन्ति॒ भासो॒ वृथा॒ यत्तक्ष᳚दनु॒याति᳚ पृ॒थ्वीम् ।
स॒द्यो यः स्य॒न्द्रो विषि᳚तो॒ धवी᳚यानृ॒णो न ता॒युरति॒ धन्वा᳚ राट् ॥
▶ पदपाठः (Word-by-word)
अध᳚ । स्म॒ । अ॒स्य॒ । प॒न॒य॒न्ति॒ । भासः᳚ । वृथा᳚ । यत् । तक्ष᳚त् । अ॒नु॒॑याति᳚ । पृ॒थ्वीम् ।
स॒द्यः । यः । स्य॒न्द्रः । वि॑सि᳚तः । धवी᳚यान् । ऋ॒णः । न । ता॒युः । अति᳚ । धन्व᳚ । राट् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अधास्मिन् लोके स्मेतिपूरकः अस्याग्नेर्भासोरश्मीन् पनयन्ति स्तोतारःस्तुवन्ति यद्यदा वृथा अनायासेन तक्षत् तक्षन् तनूकुर्वन् वना- नि सम्यक् दहन् पृथ्वीं विस्तीर्णामरण्यभुवमनुयात्यनुगच्छति तदानींपनयन्तीत्यन्वयः योग्निः स्पन्द्रः स्पन्दनवान् विषितोविमुक्तःप्रति- बन्धरहितः अतएव सद्यः शीघ्रंधवीयान् गन्तृतमोभवति कइव ऋणोनतायुः ऋणोतिर्गतिकर्मा तायुरितिस्तेननाम यथास्तेनःशीघ्रंगन्ता- भवति तद्वत् सोयमग्निःधन्वमरुभूमिमतिक्रम्य राट् राजते यद्वा धन्वन्त्यस्मादापइतिधन्वान्तरिक्षं अतिशयेनान्तरिक्षमाक्रम्यराजते ॥ ५ ॥