तेजि᳚ष्ठा॒ यस्या᳚र॒तिर्व᳚ने॒राट् तो॒दो अध्व॒न्न वृ᳚धसा॒नो अ᳚द्यौत् ।
अ॒द्रो॒घो न द्र᳚वि॒ता चे᳚तति॒ त्मन्नम᳚र्त्यो॑व॒र्त्र ओष᳚धीषु ॥
अ॒द्रो॒घो न द्र᳚वि॒ता चे᳚तति॒ त्मन्नम᳚र्त्यो॑व॒र्त्र ओष᳚धीषु ॥
पदपाठः (Word-by-word)
तेजि᳚ष्ठा । यस्य᳚ । अ॒र॒तिः । व॒ने॒॑राट् । तो॒दः । अध्व᳚न् । न । वृ॒ध॒सा॒नः । अ॒द्यौ॒त् ।
अ॒द्रो॒घः । न । द्र॒वि॒ता । चे॒त॒ति॒ । त्मन् । अम᳚र्त्यः । अ॒व॒र्त्रः । ओष᳚धीषु ॥
अ॒द्रो॒घः । न । द्र॒वि॒ता । चे॒त॒ति॒ । त्मन् । अम᳚र्त्यः । अ॒व॒र्त्रः । ओष᳚धीषु ॥
सायणभाष्यम् (Sayana Commentary)
यस्यग्नेः अरतिर्गन्त्रीज्वाला तेजिष्ठा अतिशयेनतेजस्विनीसती वनेराट् दावरूपेणअरण्येराजमानावर्तते वृधसानोवर्धमानः सोग्निः तो- दोअध्वंन तोदः सर्वस्यप्रेरकःसूर्यः सइव अध्वनि स्वमार्गेन्तरिक्षे अद्यौत् द्योततेप्रकाशते अपिच अद्रोघोन अद्रोग्धव्योयद्वा प्राणरूपेणसर्वे- षामद्रोग्धावायुरिव तादृशः अमर्त्योमरणरहितः सोग्निः ओषधीषु ओषः पाकः पषुधीयतेइत्योषधयोवनानि तेषु द्रविता शीघ्रगामीसन् अवर्त्रः केनाप्यवारणीयश्चभवन् त्मन् आत्मना स्वप्रकाशेनैवचेतति चेतयति सर्वंजगत् ज्ञापयति ॥ ३ ॥