हु॒वे वः᳚ सू॒नुं सह᳚सो॒ युवा᳚न॒मद्रो᳚घवाचं म॒तिभि॒र्यवि᳚ष्ठम् ।
य इन्व᳚ति॒ द्रवि᳚णानि॒ प्रचे᳚ता वि॒श्ववा᳚राणि पुरु॒वारो᳚ अ॒ध्रुक् ॥
य इन्व᳚ति॒ द्रवि᳚णानि॒ प्रचे᳚ता वि॒श्ववा᳚राणि पुरु॒वारो᳚ अ॒ध्रुक् ॥
पदपाठः (Word-by-word)
हु॒वे । वः॒ । सू॒नुम् । सह᳚सः । युवा᳚नम् । अद्रो᳚घ॑वाचम् । म॒ति॑भिः᳚ । यवि᳚ष्ठम् ।
यः । इन्व᳚ति । द्रवि᳚णानि । प्र॑चे᳚ताः । वि॒श्व॑वा᳚राणि । पु॒रु॒॑वारः᳚ । अ॒ध्रुक् ॥
यः । इन्व᳚ति । द्रवि᳚णानि । प्र॑चे᳚ताः । वि॒श्व॑वा᳚राणि । पु॒रु॒॑वारः᳚ । अ॒ध्रुक् ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने वः व्यत्ययेनबहुवचनं त्वां मतिभिर्मननीयैस्तोत्रैः हुवे आह्वयामि कीदृशं सहसोबलस्य सूनुं पुत्रं अग्निर्हिबलेनमथ्यमानोजायते युवानं नित्यतरुणं फलस्यमिश्रयितारंवा अद्रोघवाचं अद्रोग्धव्या प्रशस्ता स्तुतिरूपावाक् यस्मिन्प्रयुज्यते तादृशं यविष्ठं अतिशयेनयुवानं प्रचेताः प्रकृष्टज्ञानाः पुरुवारः पुरुभिर्बहुभिर्वरणीयःसम्भजनीयः अध्रुक् अद्रोग्धा यजमानानां एवंभूतोयोग्निः विश्ववाराणि सर्वैर्वरणीया- नि प्रशस्यानि द्रविणानि धनानि इन्वति प्रेरयति स्तोतृभ्योददातीतियावत् तं त्वां हुवेइतिपूर्वत्रसंबन्धः ॥ १ ॥