यो न॒ः सनु᳚त्यो अभि॒दास᳚दग्ने॒ यो अन्त᳚रो मित्रमहो वनु॒ष्यात् ।
तम॒जरे᳚भि॒र्वृष᳚भि॒स्तव॒ स्वैस्तपा᳚ तपिष्ठ॒ तप᳚सा॒ तप᳚स्वान् ॥
तम॒जरे᳚भि॒र्वृष᳚भि॒स्तव॒ स्वैस्तपा᳚ तपिष्ठ॒ तप᳚सा॒ तप᳚स्वान् ॥
पदपाठः (Word-by-word)
यः । नः॒ । सनु᳚त्यः । अ॒भि॒॑दास᳚त् । अ॒ग्ने॒ । यः । अन्त᳚रः । मि॒त्र॒॑म॒हः॒ । व॒नु॒ष्यात् ।
तम् । अ॒जरे᳚भिः । वृष᳚॑भिः । तव᳚ । स्वैः । तप᳚ । त॒पि॒ष्ठ॒ । तप᳚सा । तप᳚स्वान् ॥
तम् । अ॒जरे᳚भिः । वृष᳚॑भिः । तव᳚ । स्वैः । तप᳚ । त॒पि॒ष्ठ॒ । तप᳚सा । तप᳚स्वान् ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने यःशत्रुः सनुत्यः सनुतरित्यन्तर्हितनाम अन्तर्हितेदेशेवर्तमानःसन् नोस्मानभिदासदुपक्षयतिबाधते यश्च अन्तरः आभ्यन्तरवर्ती- सन् हे मित्रमहः अनुकूलदीप्ते मित्राणां महयितर्वा अग्ने वनुष्यात् हिंस्यात् तमुभयविधं हेतपिष्ठतृप्ततमाग्ने तपसा तेजसा तपस्वान् तेज- स्वी त्वं अजरेभिः जरारहितैर्वृषभिर्वर्षितृभिर्वृष्टिहेतुभूतैः तवस्वैः स्वभूतैः असाधारणैस्तेजोभिस्तपदह ॥ ४ ॥