श्रवणम्

6.5.2
त्वे वसू᳚नि पुर्वणीक होतर्दो॒षा वस्तो॒रेरि᳚रे य॒ज्ञिया᳚सः ।
क्षामे᳚व॒ विश्वा॒ भुव᳚नानि॒ यस्मि॒न्त्सं सौभ᳚गानि दधि॒रे पा᳚व॒के ॥
▶ पदपाठः (Word-by-word)
त्वे इति᳚ । वसू᳚नि । पु॒रु॒॑अ॒नी॒क॒ । हो॒तः॒ । दो॒षा । वस्तोः᳚ । आ । ई॒रि॒रे॒ । य॒ज्ञिया᳚सः ।
क्षाम᳚॑इव । विश्वा᳚ । भुव᳚नानि । यस्मि᳚न् । सम् । सौभ᳚गानि । द॒धि॒रे । पा॒व॒के ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पूर्वणीक बहुज्वालहोतर्देवानामाह्वातरग्ने त्वे त्वयि दोषा रात्रौ वस्तोरहनिच यज्ञियासोयज्ञार्हायजमानाः वसूनि हविर्लक्षणानि- धनानि एरिरे आभिमुख्येनप्रेरयन्ति प्रापयन्ति जुह्वतीत्यर्थः विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि क्षामेव क्षमायां भूम्यामिव यस्मिन्पाव्केशोधकेग्नौ सौभगानि धनानि सन्दधिरे देवाःसम्यङ्गिहितवन्तः अग्नौ वामं वसु संन्यदधतेतिब्राह्मणं तस्मिंस्त्वयीतिपूर्वत्र- योज्यम् ॥ २ ॥