अ॒श्याम॒ तं काम᳚मग्ने॒ तवो॒ती अ॒श्याम᳚ र॒यिं र᳚यिवः सु॒वीर᳚म् ।
अ॒श्याम॒ वाज᳚म॒भि वा॒जय᳚न्तो॒॑श्याम᳚ द्यु॒म्नम᳚जरा॒जरं᳚ ते ॥
अ॒श्याम॒ वाज᳚म॒भि वा॒जय᳚न्तो॒॑श्याम᳚ द्यु॒म्नम᳚जरा॒जरं᳚ ते ॥
पदपाठः (Word-by-word)
अ॒श्याम᳚ । तम् । काम᳚म् । अ॒ग्ने॒ । तव᳚ । ऊ॒ती । अ॒श्याम᳚ । र॒यिम् । र॒यि॒॑वः॒ । सु॒॑वीर᳚म् ।
अ॒श्याम᳚ । वाज᳚म् । अ॒भि । वा॒जय᳚न्तः । अ॒श्याम᳚ । द्यु॒म्नम् । अ॒ज॒र॒ । अ॒जर᳚म् । ते॒ ॥
अ॒श्याम᳚ । वाज᳚म् । अ॒भि । वा॒जय᳚न्तः । अ॒श्याम᳚ । द्यु॒म्नम् । अ॒ज॒र॒ । अ॒जर᳚म् । ते॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने ते तव संबन्धिन्यऊती ऊत्या रक्षया तं कामं अश्याम प्राप्नुयाम तमेवकामंविवृणोति हेरयिवोधनवन्नग्ने सुवीरं शोभनपुत्रादि- युक्तं रयिं धनं अश्याम प्राप्नुयाम तथा वाजयन्तः वाजमन्नमात्मनइच्छन्तोवयं वाजं त्वयादत्तमन्नं अभि आभिमुख्येनाश्याम प्राप्नुयाम हेअजरजरारहिताग्ने ते त्वदीयमजरंजरारहितं द्युम्नं द्योतमानं यशश्च अश्याम प्राप्नुयाम ॥ ७ ॥
प्रनव्यसेतिसप्तर्चंषष्ठंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमाग्नेयं प्रनव्यसेत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।