श्रवणम्

6.5.3
त्वं वि॒क्षु प्र॒दिवः᳚ सीद आ॒सु क्रत्वा᳚ र॒थीर᳚भवो॒ वार्या᳚णाम् ।
अत᳚ इनोषि विध॒ते चि᳚कित्वो॒ व्या᳚नु॒षग्जा᳚तवेदो॒ वसू᳚नि ॥
▶ पदपाठः (Word-by-word)
त्वम् । वि॒क्षु । प्र॒॑दिवः᳚ । सी॒द॒ । आ॒सु । क्रत्वा᳚ । र॒थीः । अ॒भ॒वः॒ । वार्या᳚णाम् ।
अतः᳚ । इ॒नो॒षि॒ । वि॒ध॒ते । चि॒कि॒त्वः॒ । वि । आ॒नु॒षक् । जा॒त॒॑वे॒दः॒ । वसू᳚नि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वं प्रदिवः पुराणनामैतत् पुरातनकालीनासु विक्षु प्रजासु आसु परिदृश्यमानासुच सीदः सीदसिविश्वान्तरात्मनावर्तसे तथाकृ- त्वा आत्मीयेनकर्मणा वार्याणां वरणीयानांधनानांरथीरभवः रंहयितायजमानेभ्यः प्रापयिताभूः अतःकारणात् हेचिकित्वोविद्वन् जातवे- दः जातानांप्राणिनांवेदितरग्ने विधते परिचरतेयजमानाय वसूनि धनानि आनुषगनुषक्तंसततंयथाभवतितथा विइनोषि विविधंप्रेरयसि ॥ ३ ॥ प्रवर्ग्येभिष्टवेयोनः सनुत्यइतिद्वृचः सूत्रितंच-योनःसनुत्योअभिदासदग्नेभवानोअग्नेसुमनाउपेतौइतिद्वृचाइति ।