श्रवणम्

6.56.1
य ए᳚नमा॒दिदे᳚शति कर॒म्भादिति᳚ पू॒षण᳚म् ।
न तेन᳚ दे॒व आ॒दिशे᳚ ॥
▶ पदपाठः (Word-by-word)
यः । ए॒न॒म् । आ॒॑दिदे᳚शति । क॒र॒म्भ॒॑अत् । इति᳚ । पू॒षण᳚म् ।
न । तेन᳚ । दे॒वः । आ॒॑दिशे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यःस्तोता एनंपूषणंपोषकंकरंभात्करंभानांघृतमिश्रानांयवसक्तूनांअत्तेतिआदिदेशति अभिष्टौति तेनपुरुषेणअन्योदेवःनआदिशे आदेष्ट- व्यः स्तोतव्योनभवति पूष्णएवसर्वस्याभितमस्यधनस्यलाभात् देवतान्तरंनस्तौतिइत्यर्थः ॥ १ ॥