श्रवणम्

6.56.5
इ॒मं च᳚ नो ग॒वेष᳚णं सा॒तये᳚ सीषधो ग॒णम् ।
आ॒रात्पू᳚षन्नसि श्रु॒तः ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । च॒ । नः॒ । गो॒॑एष᳚णम् । सा॒तये᳚ । सी॒स॒धः॒ । ग॒णम् ।
आ॒रात् । पू॒ष॒न् । अ॒सि॒ । श्रु॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपूषन् नोस्माकंसातयेलाभायइमंचगणंमनुष्यसंघं गवेषणं गवामेषयितारं सीषधःसाधय हेपूषन्आरात् दूरदेशेपित्वंश्रुतोविश्रुतः प्रख्यातोसि भवसि ॥ ५ ॥