श्रवणम्

6.56.2
उ॒त घा॒ स र॒थीत᳚म॒ः सख्या॒ सत्प᳚तिर्यु॒जा ।
इन्द्रो᳚ वृ॒त्राणि᳚ जिघ्नते ॥
▶ पदपाठः (Word-by-word)
उ॒त । घ॒ । सः । र॒थि॑त᳚मः । सख्या᳚ । सत्॑प᳚तिः । यु॒जा ।
इन्द्रः᳚ । वृ॒त्राणि᳚ । जि॒घ्न॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतघ अपिच सःयःशत्रूणांहन्तृत्वेनप्रसिद्धस्तादृशः रथीतमः अतिशयेनरथीमहारथः सत्पतिः सतांपालयिता एवंगुणाइन्द्रःसख्यामित्र- भूतेनपूष्णायुजासहायभूतेनयुक्तः सन् वृत्राणिशत्रून् जिघ्नतेहन्ति इन्द्रस्यापिअयमेवसाहाय्यकारीत्यर्थः ॥ २ ॥