उ॒तादः प᳚रु॒षे गवि॒ सूर᳚श्च॒क्रं हि᳚र॒ण्यय᳚म् ।
न्यै᳚रयद्र॒थीत᳚मः ॥
न्यै᳚रयद्र॒थीत᳚मः ॥
पदपाठः (Word-by-word)
उ॒त । अ॒दः । प॒रु॒षे । गवि᳚ । सूरः᳚ । च॒क्रम् । हि॒र॒ण्यय᳚म् ।
नि । ऐ॒र॒य॒त् । र॒थि॑त᳚मः ॥
नि । ऐ॒र॒य॒त् । र॒थि॑त᳚मः ॥
सायणभाष्यम् (Sayana Commentary)
उतापिच सूरः प्रेरकः रथीतमः अतिश्येनरथीनेतृतमोवापूषापरुषेपरुष्मतिपर्ववतिभास्वतिवागविगच्छतीतिगैरादित्यः तस्मिन् हिर- ण्ययंहिरण्यंसुवर्णनिर्मितंअदस्तद्रथस्यच्क्रंन्यैरयत् नितरां प्रेरयतिस्म ॥ ३ ॥