यद॒द्य त्वा᳚ पुरुष्टुत॒ ब्रवा᳚म दस्र मन्तुमः ।
तत्सु नो॒ मन्म᳚ साधय ॥
तत्सु नो॒ मन्म᳚ साधय ॥
पदपाठः (Word-by-word)
यत् । अ॒द्य । त्वा॒ । पु॒रु॒॑स्तु॒त॒ । ब्रवा᳚म । द॒स्र॒ । म॒न्तु॒॑मः॒ ।
तत् । सु । नः॒ । मन्म᳚ । सा॒ध॒य॒ ॥
तत् । सु । नः॒ । मन्म᳚ । सा॒ध॒य॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेपुरुष्टुत बहुभिर्यजमानैःस्तुत दस्रदर्शनीय मन्तुमःज्ञानवन् पूषन् अद्येदानींयदुद्दिश्यत्वांब्रवाम स्तवाम नोस्माकंमन्ममननीयंसुसुष्ठु- तद्धनं साधय उत्पादय ॥ ४ ॥