श्रवणम्

6.70.1
घृ॒तव᳚ती॒ भुव᳚नानामभि॒श्रियो॒र्वी पृ॒थ्वी म᳚धु॒दुघे᳚ सु॒पेश᳚सा ।
द्यावा᳚पृथि॒वी वरु᳚णस्य॒ धर्म᳚णा॒ विष्क᳚भिते अ॒जरे॒ भूरि᳚रेतसा ॥
▶ पदपाठः (Word-by-word)
घृ॒तव᳚ती॒ इति᳚ घृ॒त॑व᳚ती । भुव᳚नानाम् । अ॒भि॒॑श्रिया᳚ । उ॒र्वी इति᳚ । पृ॒थ्वी इति᳚ । म॒धु॒दुघे॒ इति᳚ म॒धु॒॑दुघे᳚ । सु॒॑पेश᳚सा ।
द्यावा᳚पृथि॒वी इति᳚ । वरु᳚णस्य । धर्म᳚णा । विस्क᳚भिते॒ इति॒ वि॑स्क᳚भिते । अ॒जरे॒ इति᳚ । भूरि᳚॑रेतसा ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्यावापृथिवी हे द्यावापृथिव्यौ घृतवती दीप्तिमत्यौ उदकवत्यौ वा वनं घृतमित्युदकनामसु पाठात् भवतइति शेषः भुवनानां भूतानाम- भिश्रिया अभिश्रयणीये भवत इति सर्वत्रानुसंबन्धनीयं उर्वी विस्तोर्णं पृथ्वी बहुकार्यरूपेण प्रथिते च मधुदुघे मधुनउदकस्य दोग्ध्र्यौ सुपेशसा सुरूपे वरुणस्य सर्वस्य नियामकस्य धर्मणा धारणेन विष्कभिते पृथग्धारिते अजरे नित्ये भूरिरेत सा बहुरेतस्के बहुकार्ये वा भवतः । अत्र साक्षात् द्यावापृथिव्योः स्तुतिप्रसंगात् वरुणस्येति द्रष्टव्यं ॥ १ ॥