घृ॒तेन॒ द्यावा᳚पृथि॒वी अ॒भीवृ᳚ते घृत॒श्रिया᳚ घृत॒पृचा᳚ घृता॒वृधा᳚ ।
उ॒र्वी पृ॒थ्वी हो᳚तृ॒वूर्ये᳚ पु॒रोहि᳚ते॒ ते इद्विप्रा᳚ ईळते सु॒म्नमि॒ष्टये᳚ ॥
उ॒र्वी पृ॒थ्वी हो᳚तृ॒वूर्ये᳚ पु॒रोहि᳚ते॒ ते इद्विप्रा᳚ ईळते सु॒म्नमि॒ष्टये᳚ ॥
पदपाठः (Word-by-word)
घृ॒तेन᳚ । द्यावा᳚पृथि॒वी इति᳚ । अ॒भीवृ᳚ते॒ इत्य॒भि॑वृ᳚ते । घृ॒त॒॑श्रिया᳚ । घृ॒त॒॑पृचा᳚ । घृ॒त॒॑वृधा᳚ ।
उ॒र्वी इति᳚ । पृ॒थ्वी इति᳚ । हो॒तृ॒॑वूर्ये᳚ । पु॒रोहि᳚ते॒ इति᳚ पु॒रः॑हि᳚ते । ते इति᳚ । इत् । विप्राः᳚ । ई॒ळ॒ते॒ । सु॒म्नम् । इ॒ष्टये᳚ ॥
उ॒र्वी इति᳚ । पृ॒थ्वी इति᳚ । हो॒तृ॒॑वूर्ये᳚ । पु॒रोहि᳚ते॒ इति᳚ पु॒रः॑हि᳚ते । ते इति᳚ । इत् । विप्राः᳚ । ई॒ळ॒ते॒ । सु॒म्नम् । इ॒ष्टये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
द्यावापृथिवी द्यावापृथिव्यौ घृतेनोदकेन अभिवृते आवृते भवतः घृतश्रिया उदकं श्रयंत्यौच घृतपृचा घृतसंपृक्तेच घृतवृधा घृतं वर्धयंत्यौ च उर्वी विस्तीर्णे पृथ्वी प्रथिते च भवतः होतृवूर्ये यज्ञे पुरोहिते यजमानैः पुरस्कृते च भवतः विप्राः प्राज्ञाः स्तोतारः ते इत् द्यावापृथि- व्यावेव इष्टये यज्ञाय होत्रा इष्टिरिति यज्ञनामसु पाठात् सुम्रं सुखं ईळते याचन्ते । सुखे सति हि यागाः प्रवर्तन्ते ॥ ४ ॥